देव ! तव पादानां नखाश्चन्द्राः कान्त्यादिना तेषामर्च्चिषः किरणाः कुन्दकुसुमनिर्मलाः शुद्धाः भूपानां राज्ञां पाणीन् पद्मानि कान्त्यादिना सङ्कोचयितुं प्रणतिकरसम्पुटरूपेण मीलयितुमीशते कल्पन्ते । युक्तकारी चित्रहेतुरेवंविधः, चन्द्रतः पङ्कजसंकोचस्योचितत्वादिति ॥
हेतुमुपसं[हरन्नाह]—
इति कथितेन विधिना हेतोर्विकल्पस्य प्रभेदस्य सामान्यरूपानुगतस्य गतिः स्वरूपमीदृशी कथितरूपा दर्शिता प्रतिपादिता ॥
सूक्ष्ममालक्षयन्नाह—
संप्रति सूक्ष्मो लक्ष्यते । इङ्गितं कस्यचिदन्तर्गस्य भावस्य ज्ञापनार्थं तादृशि प्रस्तावे बुद्धिपूर्वकं क्रियमाणं तादृशं कायिकं चेष्टितम् । आकारस्तु स्वयमेव भावानुरूपमाविर्भवन् तत्सूचकमवस्थान्तरं शरीरस्येत्यनयोर्भेदः । ताभ्यां लक्ष्यो गम्योऽर्थः कश्चिदन्तर्मात्राधिरूढः सुरतोत्सवादिः सूक्ष्मः इति स्मृतो विज्ञायते तज्ज्ञैः । कुतः ? शब्दालोकातिवर्तिनो वस्तुनः कायविज्ञप्तिमात्रेण तादृशेन लक्ष्यतया सौक्ष्म्यात् सूक्ष्मत्वात् तथाविधैरेव ग्रहणादिति ॥
[इङ्गितलक्ष्य]सूक्ष्ममुदाहरति—