ननु दोष एवात्र सर्वथोक्तो न गुणः क्वचित् यतो लेशतः स्तुतिः स्यात् इत्यत आह—
160 सखि ! त्वया किमतिदाक्षिण्येन अस्य दास्या भूयते ? अणुभिरपिन कदाचिदञ्च्यसे । मानिन्यो हि वयम् । किमपरमस्माकमस्त्रमिति सखीजनेनोद्दिष्टम् उपदिष्टम् मानमुन्नतिं चित्तस्य कर्तुमनुष्ठातुमशक्ततया कयाचिदङ्गनया । कुतः ? रागात् तद्विंषयाभिषङ्गान्मानविरोधिनो हेतोश्चाटुकारिता उपचारचातुर्यं नाम गुणो विशेषः कोऽपि कश्चिदुपात्तो नागरकजनोचितः कोऽपि वा कश्चिदेकः सर्वदोषवदाभासते । अपराधप्रमार्जनपरत्वेनैव प्रकाशनात् दोषाभासो दर्शितः । ततो लेशतः स्तुति[रि]यं कल्पत इति ।
इत्यपरमुदाहरणम् ॥