तदुभयमुदाहरति—

मनोभव तवानीकं नोदयाय न मानिनी ।
भयादमेयामा मा वा वयमेनोमया नत ॥ ८१ ॥

हे मनोभव ! अत एव सर्वेषां चित्ताधिष्ठानतया हे नत ! प्रत्यासन्न ! देवान्तरवद् यो [न] परोक्षः, मानिनी काचिदिष्टा तव अनीकं सेना जगद्विजयप्रयुक्तत्वात् । [अन्या] सेना कुतश्चित् सभयापि । इयं त्वकुतोभया काचित् सेना इत्याह—भयादित्यादि । [सा] अमः पीडा । अमेयोऽप्रमाणोऽमो यस्या इति अमेयामा [भवतु] मा वा [भूत् । कुतः ?] भयात् [त्वदुत्थात्] कारणान्तरात् मा वा न भवति । सेयमीदृशी तवोदयाय जगद्वि[जय]लक्षणाय न न भवति, किं तु भवत्येव । केचन वयमत्र एनोमयाः पापस्वभावाः । अनुदयभाजस्तिष्ठामः, तत्प्रसादाप्रतिलम्भात्, प्रत्युत निर्दयभावनात् । तदियं प्रसीदतु तव सेनेति अर्धभ्रमम् ॥