23a तो लक्ष्यतश्च प्राधान्येन प्रागुक्ता । इन्द्रनीलनिभम् इन्द्रनीलमणिसदृशं नीलत्वात् । लक्ष्म चिह्नम् । अलिनो भ्रमरस्य श्रियं शोभां संदवाति बिभर्ति । कुत्र ? चन्द्रै शंशाङ्के शरदि वर्षात्यये शरदो वा निशाया रात्रेरुत्तंसे शिरश्शेखरे । उत्तंसो मूर्ध्नि शेखर इत्यभिधानात् । कथमुत्तंसश्चन्द्रो रूप्यत इत्याह—कुन्दस्तबकविभ्रमेति । कुन्दस्तबकस्यैव विभ्रमः शोभा शौक्ल्यात् । यतः कुसुमसंदोहसदृशश्चन्द्रस्ततः शरन्निशोत्तंसत्वेन रूष्यते [तदनुपाति] च लक्ष्म नीलमणिनोपनीयते । अत्र चन्द्र कुन्द इन्द्र सन्द इतिं पादेष्वनुप्रासः ॥

चारु चान्द्रमसं भीरु बिम्बं पश्येदमम्बरे ।
मन्मनो मन्मथक्लान्तं निर्दयं कर्तुमुद्यतम् ॥ ५७ ॥

मम मनश्चित्तं मन्मथक्लान्तं कामातुरं निर्दयमत्यर्थं कर्तुम् । करोतिक्रियाविशेषणं निर्दयमिति । उद्यतमुत्थितमम्बरे नभसीदमेतत् चन्द्रमस इदं चान्द्रमसम् ऐन्दवम् बिम्बं मण्डलं पश्य भीरु प्रिये । इति चन्द्रोदयोपनीतां स्वामनङ्ग[पीडां] भङ्ग्या निवेदयति कश्चित् कामी । बकारस्य मकारसहितस्य, मकारस्य नकारेण सह, मकारस्य रेफस्यान्यस्य वा यथासम्भवमावृत्तिरनुप्रासः पादेषु ।

लीलास्मितमितालापकोमलं रमणीमुखम् ।
उपात्तपाणि संरक्तलोचनंलोक[रञ्जन]म् ॥
इत्यपरमुदाहरणम् ॥

इष्टमनुप्रासमुदाहरन्नाह—