37b त्येव उपासितुः पुरुषस्य । नात्र सन्देहः । तस्मान्नैसर्गिकी प्रतिभा नास्ति ममेति नोपासितव्यैव सरस्वती । कामधेनुरवश्यमेवानुग्रहीष्यतीति [ध्येयम्] ॥

तदस्ततन्द्रैरनिशं सरस्वतीश्रमादुपास्या खलु कीर्तिमीप्सुभिः ।
कृशे कवित्वेऽपि जनाः कृतश्रमाविदग्धगोष्ठीषु विहर्तुमीशते ॥ १०५ ॥

यत एवं न निष्फलं वागुपासनं तत्तस्मात् कारणात् अस्ततन्द्रैरनलसो भूत्वा अनिशम् अनवरतम् अभियोगाविच्छेदात् क्रमात् श्रुतचिन्ताभावनाक्रमेण सम्प्रदायसाद्गुण्यार्थवर्तिना यथोक्तं प्राक् । उपास्या समाराध्या । अभ्यसनीया यावत्प्रसीदति । यथोक्तमाचार्यमातृचेटेन—