तदस्ततन्द्रैरनिशं सरस्वतीश्रमादुपास्या खलु कीर्तिमीप्सुभिः ।
    कृशे कवित्वेऽपि जनाः कृतश्रमाविदग्धगोष्ठीषु विहर्तुमीशते ॥ १०५ ॥
   
 
यत एवं न निष्फलं वागुपासनं तत्तस्मात् कारणात् अस्ततन्द्रैरनलसो भूत्वा अनिशम् अनवरतम् अभियोगाविच्छेदात् क्रमात् श्रुतचिन्ताभावनाक्रमेण सम्प्रदायसाद्गुण्यार्थवर्तिना यथोक्तं प्राक् । उपास्या समाराध्या । अभ्यसनीया यावत्प्रसीदति । यथोक्तमाचार्यमातृचेटेन—
61 
                                                                    अधीत्य तावत् खिलमेव भिद्यतेकृषिस्तु तस्य श्रमणाद्विभाव्यते ।
  ततः स्वचिन्तामयबीजमुप्यतेविचारणाङ्गस्तु विवर्द्धतेऽङ्कुरः ॥
 
  ततः प्रसादोत्तमसस्यमाप्यतेविधानपर्याप्तममन्दनिश्चयैः ॥ इति ।
 
 
सरस्वती काव्याङ्गविद्यालक्षणा प्रकरणादेर्यथोक्तं प्राक् । खलु [ऐ]कान्तेन असंशयम् वा । कीर्तिः परिशुद्धकाव्यक्रियालक्षणा पूर्वोक्ता, काव्यसम्पदः एकान्तेन कीर्तिहेतुत्वात् । आवर्तते स एवार्थः पुनरर्थान्तराश्रयादिति न्यायात् । तत्सम्भवा ख्यातिर्वा, गुणेभ्य एव प्रभवन्ति कीर्तय इति वचनात् । तामनश्वरीं सत्पुरुषतनुमशेषजनसुभगां व्यापिनीं गुणाधिराजवैजयन्तीमीप्सुभि[रवाप्तु]कामैः पु38a रुषैः । उपास्येति प्रकृतम् । तथा लाभसत्कारादिकमपि द्रष्टव्यम् । न तु [सा वासना] मम नास्तीति आलस्यमालम्बनीयं तस्यानर्थहेतुत्वात् । यथोक्तमाचार्याश्वघोषेण—
  आलस्यं यदि न भवेज्जगत्यनर्थःको विद्वानिह न भवेद्धनेश्वरो वा ॥
  आल[स्य]दवनिरियं ससागरा [हि]संपूर्णा नरपशुभिश्च निर्धनैश्च ॥ [ ]
 
  
अथ कथञ्चित् स्वयं काव्यक्रियालसश्चेतत् तादृशः तथापि परकाव्यकोविदः स्वयं च किञ्चित्करः तद्विदामादेयो भविष्यतीति सर्वथावैफल्यपरिहारमाह—कृश इत्यादि । कवित्वे स्वयं काव्यकरणे कृशे मन्देऽपि सति सर्गबन्धाद्यनिर्वहणात् । कृशे वा असति कवित्वेऽपि मुक्तकादेरपि अकरणात् । तथापि दर्शनात् । भिन्ना हि शक्तिः पुंसाम् । यथोक्तम्—
  एकस्तावद् रचयितुमलं श्रोतुमेवापरस्ता-मन्यः कर्त्तृं तदुभयमपि ज्ञातुमेकोऽभियुक्तः ।
  नत्वेकस्मिन्नतिशयवतां सन्निपातो गुणाना-मेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥ इति ॥
 
  
62 कृतश्रमा यथाविधानमुपासितवाचो जनाः पुरुषाः कृतोऽनुष्ठितः श्रमः श्रवणादिलक्षणो व्यवहारो यैरिति 38b  विग्रहः, परकाव्यकोविदत्वात् । विदग्धगोष्ठीषु विहर्तुमीशते । विदग्धाः कवयः तेषां गोष्ठीषु काव्यालापेषु विद्यारमणीमेखलानूपुर[शिञ्जितेषु] सकलकलानदीविश्रामसमुद्रेषु नानारसभावाभिनयमहानटेषु शब्दपारायणमहार्णवरत्नाङ्कुरेषु शास्त्रपरिश्रमफलोदयमहोत्सवेषु कविसागरामृतेषु बुधजनमनस्तस्करेषु विविधालङ्कारहारिषु वन्दनीयेषु विदग्धताभूमिसीमान्तेषु विद्वत्सरणिप्रपाभूतातिशयेषु स्वयंकृतेषु अध्यात्मशास्त्रकलाकौशलवर्णनेषु सतामुचितेषु तदेकरूपेष्वपि प्रतिपुरुषमपूर्वपरिणामितया परमात्मदेशीयेषु सरस्वतीप्रसादमहावरेषु लक्ष्मीपूजाभाजनेषु निरुद्वेगसुखस्वभावत्वात् कैवल्यकल्पेष्वतलभावगम्भीरत्वात् परार्थप्रसत्तिगुणयोगाच्च सागरेष्विव महाह्रदेषु सत्पुरुषचरितादर्शभित्तिषु यशःकुसुमामोदसुरभिषु महाकविकीर्तिस्तम्भेषु किं बहुना संसारसारसन्दोहेषु ।
तदुक्तम्—
                                                                    
  संसारविषवृक्षस्य द्वयमेवामृतं फलम् ।
  सुभाषितरसास्वादः सद्भिश्च सह सङ्गतम् ॥ इति ॥
 
विहर्तुमभिज्ञाततयाऽन्तर्भवितुमीश39a ते कल्पन्ते । अकृतश्रमाणां तु पल्लवग्राहिणामवलेपिनामनात्मविदां विदग्धगोष्ठीविहार उपहास एव स्यात् । यथोक्तमाचार्यमातृचेटेन—
  न पठ्यते साधुजनो न सेव्यतेन चिन्त्यते संसदि वक्तुमिष्यते ।
  तथाविधानामत एव भारतीदरिद्रलीलेव भृशं न शोभते ॥
 
  कथं कथामार्गमहामहोदधि-तटाम्बुसेवासमयेऽप्यशिक्षिताः ।
  प्रवेष्टुमिच्छन्ति तदुत्तरोत्तर-प्रकर्षपातालतलाश्रयां गतिम् ॥
 
63 
  स्थिरोदकेषु व्यवदातविक्रम-स्तरङ्गिणीं यः सहसा विगाहते ।
  नवाम्बुवेगोद्धतरोधसं गतिंतृणाश्मनोरन्यतरां स गच्छति ॥
 
  सुदृष्टशास्त्रोऽपि हि सज्जनाकुलेविमृष्य साधुः सदसि प्रवर्तते ।
  वशीव सर्वत्र तु वीतसंभ्रमःसमुद्वमत्येव खलः स्ववाग्विषम् ॥
 
  पुनः प्रकर्षन्ति विशन्ति हृत् सतांहरन्त्यवस्कन्द्य नरेद्रवद्धुरम् ।
  क्षिपत्यगाधेऽपि कथार्णवे मुखंनिपीतभूयिष्ठमिदं जगत् खलैः ॥
 
  विनागमं तद्विदुपासनं विनाविनाभियोगं प्रतिभागुणं विना ।
  विनाभिशापं मतिविभ्रमं विनान वक्तुमिच्छा पुरुषस्य जायते ॥ इति ।
 
 
वरमेवमनधीतविद्यो न पु[न]र्दु रधीतविद्यः । यथोक्तमाचा39b र्यकम्बलेन—
  यः सर्वथा[न्ध]स्तिमिराहतश्चतयोर्वरं पूर्वक एव नूनम् ।
  अन्धोऽहमस्मीत्यवलेपशून्योन भा[नुदृ]क्तैमिरिकोऽभिमानी ॥ इति ॥
 
 
स्वयमेवमुपहतं तपस्विनमपरापरदूषणेच्छा बाधते । सेयमन्या विडम्बना । यथोक्तमाचार्यमातृचेटेन—
  समातिरिक्तव्यसनी य एष सन्परान् पराहन्त्यभिहत्य वाक्शरैः ।
  स पूतिनासा कुपितेन्द्रियः स्वयंवृणोति दुर्गन्धभयेन नासिकाम् ॥
 
64 
  परापचारेष्वतितीक्ष्णचक्षुषोनिमीलिताक्षश्च यथेष्टचेष्टिते ।
  रजस्वलाः सन्त इमे स्वयं कथंकिरन्ति लोकस्य रजांसि सूच[काः] ॥
 
  यथातथा श[क्य]मिदं तितिक्षितुंसदागसो यद्धि तुदन्त्यरुन्तुदाः ।
  अदुष्टसन्दूषण[वैशसं तु] यत्तदासु[रं] कम्य मनो न कम्पयेत् ॥
 
  सतः प्रकाशानपि नेक्षते गुणान्कुतोऽपि दोषानसतोऽवगच्छति ।
  कुतस्तदीदृङ्नयनं समुद्गतंयदीक्षतेऽसत् सति न प्रवर्तते ॥
 
  तदप्यलं सोढमपण्डिताज्जना-दनीक्षमाणो हि [करोति दुःसहम्] ।
  गुणान्तरज्ञस्तु जनोऽतिदुर्जनःवहन्ति साधूंस्तदुपेक्ष्यतां कथम् ॥
 
  गुणौघपुण्यस्य तु पत्तनं परंगुणान्तरज्ञो जन एव केवलः ।
  ततोऽपि यद्यापदियं समु[त्थि]ताक्व तर्हि गच्छन्तु परायणा गुणाः ॥
 
40a कियदसच्चरितमलेन जिह्वां लिम्पामः । सेयं पूयतामत्यन्तशीते[न] प्रसन्नेन सुरभिणा भुवन[पावनेन] सच्चरितपुण्योदकेन ।
  ऋजुस्वभावोऽपि बध्यते शठै-र्न दोषविन्नैव न चाप्यरुन्तुदः ।
  नतो न सर्वत्र गतो न दीनता-महो विचित्राः पुरूषस्य नीतयः ॥
 
65 
  परापवादेषु निरात्मवर्णवान्गतो नियुक्तान्यगुणेषु वाग्मिताम् ।
  रिपूनपि श्रेयसि धातुमीहतेमनस्विनश्चेयमलौकिकी स्थितिः ॥
 
  यथा यथा दूषणतत्परः [पर]-स्तथा तथा तद्गुणलापलालसः ।
  नितान्तदाक्षिण्यमहामहोदधे-र्मनस्विनः केयमतीव वामता ॥
 
  प्रियंवदः क्षेपकृते क्षमापरः[न कुप्यति] प्राणहरेऽपि दक्षिणः ।
  अलौकिकं सर्वमितीदमीदृषंमहानुभावः कुत एष शिक्षितः ॥
 
  प्रसन्नवाक्कायमनःक्रियापथःपुनाति साक्षादिव धर्मसञ्चयः ।
  श्रुतोऽथ दृष्टः समुदाहरन् गिरःसुनीतगर्भाः सुजनः स्मृतोऽपि वा ॥
 
  स एष साधुर्भुवनैकपावनःप्रसन्नमृग्यः क्वचिदत्र दृश्यते ।
  अपि स्थिरां प्रीतिमि[मां] न संहरेत्कलेर्गुणोन्मूलनधर्मवर्मितः ॥
 
  पुनस्तथैव स्थितिरूर्जिताश्रयागुणोत्सवानामपि नाम सम्भवेत् ।
  गुणैश्च येषामिव सूर्यरश्मिभि-र्न्यलीयतादो40b षविपक्षविक्रमः ॥
 
  निवृत्तनिःशेषविशेषविप्लवंपरस्परं सद्गुणलोलुपं जगत् ।
66 
  यशस्करीं तां धुरमादिपौरुषांपुनः प्रवृत्तां विदधातु शाश्वतीम् ॥
 
  निरस्तदौर्गत्यसमृद्धिशीकरःशुभोदयात्तृप्तसमस्तसज्जनः ।
  पुनस्तथा सद्वरशास्त्रसंकथा-विनोदरम्यः सम[यः] प्रवर्तताम् ॥
 
                                                             
प्रकृतमिदानीं समाप्यताम् । तदेवं काव्यरचनाकीर्तये काव्यव्युत्पत्तये च काव्यलक्षणशास्त्रस्य प्रयोजनमिति ।
  मतं खिलप्रायमिहास्ति दण्डिनःतदेतदत्र प्रकृतं परिस्फुटम् ।
  इतः पुरस्तात् सममेव वर्ततेतदत्र नास्माभिरभावितो विधिः ॥
 
  अर्थप्रधाना प्रतिकर्मितेय-मर्थान्वयाऽऽस्ते गणिकेव टीका ।
  शब्दप्रधाना अपि लब्धवर्णा[भवन्ति निष्काः सुमनः]प्रसिद्धाः ॥
 
  स्वयं निरामोदमपीह किञ्चनप्रकर्षभूम्ना प्रथते सदाश्रयात् ।
  प्रसिद्धतां पश्य जनेक्षणालयंकलङ्कमिन्दोः कियतीमुपागमत् ॥
 
आचार्यदण्डिकृतौ काव्यलक्षणे मार्गविभागपरिच्छेदटीका रत्नश्रीर्नाम समाप्ता ॥
70