ग्रन्थारम्भे समुचितेष्टदेवतानसस्कारेण शिष्टाचारमनुवर्तते—
ध्वनिरिति । वाचामधिष्ठात्री देवी द्योतमाना स्वप्रकाशशब्दब्रह्मरूपा भारती । कथमुपास्यते । सूक्ष्मादिभेदेन ध्वन्यादिभेदेन च विवक्षितो नमस्कारः । शब्दब्रह्मणश्चतस्त्रो भिदा भवन्ति । सूक्ष्मा, पश्यन्ती, मध्यमा, वैखरी चेति । तत्राविकारदशा सूक्ष्मा । सा हि सर्वस्य प्राणापानान्तरालवर्तिनी विगतप्रादुर्भावतिरोभावा स्रम्यक्प्रयोगपरिशीलनात्मना कर्मयोगेन मननादिना ज्ञानयोगेन च सम्यगधिगम्यते । ‘सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः । अन्त्या कला हि सोमस्य नात्यन्तमभिभूयते ॥ तस्यां विज्ञातमात्रायामधिकारो निवर्तते । पुरुषे षोडशकले तामा-