इयं कतमापह्नुतिरित्याह—
इत्युक्तेन विधिना इन्दोश्चन्द्रत्वममृतमयत्वं स्वरूपं निवर्त्यापह्नुत्यार्थान्तरात्मना विषरूपेणोक्तः उद्भावित इन्दुः । उक्तमित्यपि पाठः । तत्र चन्द्रत्वमुक्तं स्वरूपेण निवर्त्य रूपान्तरेणोक्तमिति योज्यम् । स्मरार्तेन कामातुरेण विरहिणा केनचिदिति हेतोः स्वरूपापह्नुतिरेषा [मता] ज्ञेया, चन्द्रस्वरूपस्या81a पह्नुतेरिति ॥
173 ननूपमापह्नुतिरिह संगृहीता । सा हि कथञ्चिदन्तर्भूतोपमेष्यते । यदाहुः—
लक्ष्यं चेदं दत्तम् ।