91a इत्युक्तम् । जात्यादयोऽलङ्काराः सामान्यविशेषलक्ष्यलक्षणप्रभेदतः प्रतिपादिता इति यावत् । कथं पुनरनन्ता अलङ्काराः प्रतिपादयितुं शक्या इत्याशङ्का । यदुक्तम्—
ते चाद्यापि विकल्प्यन्ते कस्तान् कार्त्स्न्येन वक्ष्यति ।
किं तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितम् ।
तदेव प्रतिसंस्कर्तुमयमस्मत्परिश्रमः ॥
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते
117
इति सकलविकल्पव्यापकेन सामान्यलक्षणेन सास्नादिमत्त्वेनेवानन्तं गोप्रभेदं निःशेषं संगृह्य । परिमाणस्य परिमितेर्वृत्त्या सद्भावेन पञ्चत्रिंशदलङ्काररूपेण परिमाणीकृत्य परि[माप्य] इति यावत् । विवृत इति प्रकृतम् । न चैतद् व्याहतमाशङ्कनीयम् । यद्यपरिमितोऽलङ्कारविस्तरः कथमिह परिमित उक्त इति ? योऽसावपरिमितोऽलङ्कार-