तवाननमिवाम्भोजमम्भोजमिव ते मुखम् ।
इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी ॥ १८ ॥

तवाननमिवाम्भोजं पद्मम् । अम्भोजमिव ते तव मुखमिति । एवं जातीया अन्योन्योपमेष्यते । अन्योन्यस्य परस्परस्य मुखस्याम्भोजस्य चान्योन्येन तेनैव द्वयेन उपमानात् साम्यकथनात् । सा चेयमन्योन्यस्य मुखस्याम्भोजस्य चोत्कर्षं विशेषं कान्त्यादिलक्षणं शंसति प्रकाशयति । अन्योन्येनैवेतद् द्वयं समानं 44a नान्येन केनचिदिति द्वयोरतिशयः कश्चिदवसीयत इति । अनेन

उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ।
उपमेयोपमां नाम ब्रुवते तां यथोदिताम् ॥
73 इति परेष्टोपमेयोपमा पृथगुपमायामन्तर्भाविता ॥

  1. काव्यालङ्कारे ३.३७