त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् ।
इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ १९ ॥

तव मुखं कमलेनैव तुल्यम् । नान्येन केनचित् कमलव्यतिरिक्तेन वस्तुनेति । एवंविधा या सादृश्योक्तिः सेयं नियमोपमा कथ्यते । नियमस्य साक्षादुपादानात् । यदाह—अन्यसाम्यव्यावृत्तेरिति । कमलादन्येन केनचिद्वस्तुना साम्यस्य सादृश्यस्य व्यावृत्तेर्व्यवच्छेदात् कारणात् । तेनैव च नियमेन व्यपदिश्यते, नान्यथेति ॥