पद्मं तावत् तवान्वेति मुखमन्यच्च तादृशम् ।
अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ॥ २० ॥

74 तव मुखं कतृ पद्मं कर्मभूतम् । अन्वेत्यनुगच्छति पद्मेन तुल्यं तावत् । एतन्निश्चितम् । वाचोयुक्तौ वा । अन्यच्चापरमपि किञ्चिद्वस्तु तादृशं पद्मसमम् । तत्कारि त्वन्मुखान्वयकारि त्वदाननस्योपमानमस्ति चेत् यदि भवेत्, अस्तु भवतु न वार्यत इति एवंरूपा यासौ तादृशी अनियमोपमा स्मर्यते तज्ज्ञैः । पद्मेनैव तुल्यमित्यस्य नियमस्यानपेक्षणात्, अन्यस्यापि तादृशस्याभ्यनुज्ञानादिति ॥