74 तव मुखं कतृ पद्मं कर्मभूतम् । अन्वेत्यनुगच्छति पद्मेन तुल्यं तावत् । एतन्निश्चितम् । वाचोयुक्तौ वा । अन्यच्चापरमपि किञ्चिद्वस्तु तादृशं पद्मसमम् । तत्कारि त्वन्मुखान्वयकारि त्वदाननस्योपमानमस्ति चेत् यदि भवेत्, अस्तु भवतु न वार्यत इति एवंरूपा यासौ तादृशी अनियमोपमा स्मर्यते तज्ज्ञैः । पद्मेनैव तुल्यमित्यस्य नियमस्यानपेक्षणात्, अन्यस्यापि तादृशस्याभ्यनुज्ञानादिति ॥

समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव ।
ह्लादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ २१ ॥

क्वचिदेकत्र क्रियादावनेकपदार्थातिसर्जनं समुच्चयः । तन्मुखेनोपमा समुच्चयोपमाप्यस्ति वक्ष्यमाणा, न केवलं पूर्वाक्ताः । कीदृशी ? तव मुखं कर्तृभूतमिन्दुमन्वेत्यनुगच्छति । न कान्त्यैव न सौम्यत्वेन गुणेन केवलेन, किं तु ह्लादनाख्येन प्रीणनेन च कर्मणा क्रियया अन्वेति ईदृशी एवंप्रकारावस्थया ह्लादनमित्याख्या संज्ञा यस्य कर्मण इति विग्रहः । कान्त्या ह्लादकत्वेन च त्वन्मुखमिन्दुनोपमीयत इत्यर्थ इति ॥

त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः ।
इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥ २२ ॥

तव मुखं त्वय्येव भवत्यामेव दृष्टम्, न दिवि । चन्द्रमाश्चन्द्रस्तु दिवि नभस्येव दृश्यते, न त्वयि । इयत्येव परिमाणभिन्नाश्रयतामात्रलक्षणा भिदा भेदो विद्यते नान्या काचिद् एतद्व्यतिरिक्ता । अन्यथा सर्वथा साम्यमेवानयोरित्यनेकभेदसम्भवे अपि अतिशयस्येदृशस्य विवक्षया कविनानयोः साम्यकथनातिशयपरत्वेनातिशयोपमा आख्यायत इति ॥

मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनैः ।
पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ॥ २३ ॥

यस्या मृगदृशो मुखश्रीर्वदनकान्तिर्मय्येव वर्तते, नान्यत्रेत्येवंरूपैर्विकत्थनैः श्लाघयाऽलम् । कृतमिन्दोश्चन्द्रस्य ।