समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव ।
ह्लादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ २१ ॥

क्वचिदेकत्र क्रियादावनेकपदार्थातिसर्जनं समुच्चयः । तन्मुखेनोपमा समुच्चयोपमाप्यस्ति वक्ष्यमाणा, न केवलं पूर्वाक्ताः । कीदृशी ? तव मुखं कर्तृभूतमिन्दुमन्वेत्यनुगच्छति । न कान्त्यैव न सौम्यत्वेन गुणेन केवलेन, किं तु ह्लादनाख्येन प्रीणनेन च कर्मणा क्रियया अन्वेति ईदृशी एवंप्रकारावस्थया ह्लादनमित्याख्या संज्ञा यस्य कर्मण इति विग्रहः । कान्त्या ह्लादकत्वेन च त्वन्मुखमिन्दुनोपमीयत इत्यर्थ इति ॥