त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः ।
इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥ २२ ॥

तव मुखं त्वय्येव भवत्यामेव दृष्टम्, न दिवि । चन्द्रमाश्चन्द्रस्तु दिवि नभस्येव दृश्यते, न त्वयि । इयत्येव परिमाणभिन्नाश्रयतामात्रलक्षणा भिदा भेदो विद्यते नान्या काचिद् एतद्व्यतिरिक्ता । अन्यथा सर्वथा साम्यमेवानयोरित्यनेकभेदसम्भवे अपि अतिशयस्येदृशस्य विवक्षया कविनानयोः साम्यकथनातिशयपरत्वेनातिशयोपमा आख्यायत इति ॥