मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनैः ।
पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ॥ २३ ॥

यस्या मृगदृशो मुखश्रीर्वदनकान्तिर्मय्येव वर्तते, नान्यत्रेत्येवंरूपैर्विकत्थनैः श्लाघयाऽलम् । कृतमिन्दोश्चन्द्रस्य । 44b न विकत्थनीयमित्थमिन्दुना । किमिति ? यद् यस्मात् । सा मुखश्रीः पद्मेऽपि न केवलमिन्दौ । अस्त्येव न नास्ति । इत्युत्प्रेक्षया असतोऽपि तथाविकत्थनस्याध्यासेन वदनमिन्दुनोपमीयत इति । उत्प्रेक्षितोपमैवासौ तादृशी वेदितव्येति ॥