44b न विकत्थनीयमित्थमिन्दुना । किमिति ? यद् यस्मात् । सा मुखश्रीः पद्मेऽपि न केवलमिन्दौ । अस्त्येव न नास्ति । इत्युत्प्रेक्षया असतोऽपि तथाविकत्थनस्याध्यासेन वदनमिन्दुनोपमीयत इति । उत्प्रेक्षितोपमैवासौ तादृशी वेदितव्येति ॥