उद्धृते भ्रुवौ विभ्रान्ते च लोचने यस्मिन् । तत्तादृशं किञ्चित् किमपि यदि भवेत् क्वचित् तदीदृशं ते तव सुन्दरि मुखश्रियं धत्तां न निषिध्यते । किं त्वाश्चर्यमिदं दुर्लभमीदृशमिति । अभूतोद्भावनेन वदनपद्मेनोपमीयत इति । असावियमेवंभूता अद्भुतोपमा ज्ञातव्येति ॥
तन्वङ्गीति प्रियामन्त्रणम् । अयमसौ शशी चन्द्र इति तव मुखमुत्प्रेक्ष्य अध्यवसाय चन्द्रबुद्ध्यानुधावामि । न केवलमेषा भ्रान्तिः । किं तु त्वन्मुखाशया तवाननमिदमिति त्वद्वदनबुद्ध्या इन्दुमप्यनुधावामीति अनुगच्छामि । अयमपरो विपर्यासः । इत्येवं मोहेन भ्रान्त्या चन्द्रमुखयोरुपमानोपमेयभावप्रतीतिरिति । एषा इयमीदृशी मोहोपमाख्यायत इति ॥
अन्तर्भ्रान्तौ अलो भ्रमरौ यस्मिन् तदीदृशं पद्मं किमिदम् । लोले चले ईक्षणे लोचने यस्मिन् तादृशं वा तवेदं मुखम् । इति मम चित्तं मनो दोलायते दोलेवाचरति । एवं पद्मद्वयपरिग्रहात् संशेत इत्यर्थः । इतीयमीदृशी संशयावेशेन पद्ममुखेनौपम्यावगमात् संशयोपमा प्रतीयत इति ॥
पद्मस्य द्युतिः कान्तिः इन्दोर्लज्जाकरी न भवति । नेन्दुं ह्नेपयतीत्यर्थः । किं विशिष्टस्य इन्दुना निग्राह्यस्य अभिभवनीयस्य । तदुदये सङ्कोचात् । इदमत्र कारणम् यदि तु पद्ममिदमभविष्यत्, नेन्दुमह्रेपयिष्यत् । ह्रेपयति च । अतोवसीयते तव मुख-