यदि किञ्चिद् भवेत्पद्ममुद्भ्रु विभ्रान्तलोचनम् ।
तत् ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥ २४ ॥

उद्धृते भ्रुवौ विभ्रान्ते च लोचने यस्मिन् । तत्तादृशं किञ्चित् किमपि यदि भवेत् क्वचित् तदीदृशं ते तव सुन्दरि मुखश्रियं धत्तां न निषिध्यते । किं त्वाश्चर्यमिदं दुर्लभमीदृशमिति । अभूतोद्भावनेन वदनपद्मेनोपमीयत इति । असावियमेवंभूता अद्भुतोपमा ज्ञातव्येति ॥