54b दुभयमपीष्टं शिष्टैरित्यलमतिविमर्देन इति ॥
कदम्बानि मुकुलानि विकसन्ति । कुटजानां कुटजरूपा वा उद्गमाः कुड्मलानि स्फुटन्ति विकसन्ति । कन्दल्यश्च कुसुमान्युन्मीलन्ति विकसन्ति । ककुभानि कोरकाणि च दलन्ति विकसन्ति । इत्यर्थावृत्तिरियमुदाहृता । विकासलक्षणस्यैकस्यार्थस्यानेकैः पर्यायैरभीक्ष्णमाविष्करणादिति । दीपकेनाप्ययमर्थः प्रकाश्यते । तद्यथा—