प्रवृत्तैव प्रयामीति वाणी वल्लभ ! ते मुखात् ।
अयतापि त्वयेदानीं मन्दप्रेम्णा ममास्ति किम् ॥ १५३ ॥

वल्लभ ! ते तव मुखात् प्रवृत्ता एव तावत्प्रयामीति वाणी वचनम् । तदेवं मन्दप्रेम्णा मन्दं प्रेमा अस्येति निरपेक्षेण त्वया कथञ्चित् अयता अगच्छतापि सता58a इदानीं मम किमस्ति कार्यम् ? न किञ्चित् । [मनसि शिथिलादरस्य तव] गमनमगमनं चेदानीं तुल्यमिति ॥