58a इदानीं मम किमस्ति कार्यम् ? न किञ्चित् । [मनसि शिथिलादरस्य तव] गमनमगमनं चेदानीं तुल्यमिति ॥

तद्विवृणोति—

रोषाक्षेपोऽयमुद्रिक्तस्नेहनिर्यन्त्रणात्मया ।
संरब्धया प्रियारब्धं प्रयाणं यन्निवार्यते ॥ १५४ ॥

यद् यस्मात् उद्रिक्तेनाधिमात्रेण स्नेहेन निर्यन्त्रण उद्दामः आत्मा चित्तं यस्याः तया अत एव संरब्धया आविष्कृतरोषया प्रियेणारब्धं कर्तुमभिप्रेतं प्रयाणं निवार्यते । तस्मादयमीदृशो रोषाक्षेपः, कोपावेशेन निषेधादिति ॥

नाघ्रातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम् ।
त्वद्द्विषां दीर्घिकास्वेव विशीर्णं जीर्णमुत्पलम् ॥ १५५ ॥

स्त्रीभिर्नाघ्रातं न च कर्णे कृतं श्रवणावतंसकृत्ये नियुक्तम् । मधुनि च नार्पितम् । एतावानेवोत्पलस्योपयोगः । केवलं तव द्विषामरातीनां हतानां दीर्घिकास्वेव शून्यासु विशीर्णं परिक्षतं जीर्णं परिणतं उत्पलमभवदिति ॥

तदाविष्करोति—

असावनुक्रोशाक्षेपः सानुकोशमिवोत्पले ।
व्यावृत्य कर्म तद्योग्यं शोच्यावस्थोपवर्णनात् ॥ १५६ ॥

असौ तादृशः अनुक्रोशाक्षेपो ज्ञेयः । कुतः ? उत्पले उत्पलविषये सानुक्रोशमिव सकरुणमिव । उत्पलेऽचेतने साक्षादनुक्रोशाभावादिव [शब्द] प्रयोगः । व्यावर्तनक्रियाविशेषणं चैतत् । यदाह—तस्योत्पलस्य योग्यमुचिंतं कर्म घ्राणादि व्यावृत्य निराकृत्य नाघ्रातमित्यादिना शोच्यायाः क्रियापदस्यावस्थाया विशीर्णत्वादेरुपदर्शनादिति ॥79

  1. अत्र अमृतात्मनीत्यादि २. १५९-६० श्लोकद्वयमिति केचित् ॥