114
अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता ।
न तपः सञ्चितं किञ्चिद् गतं च सकलं वयः ॥ १५७ ॥

कञ्चिद् विवक्षितोऽर्थो धनं न सम्भृतः नोपार्जितः । विद्यापि काचित् आन्वीक्षिक्यादिर्नार्जिता । तपश्च धर्मः किञ्चित् अभिमतं न सञ्चितम् । गतम् अतीतं च सकलं वयः पुरुषायुषम् अपुरुषार्थोपयोगेन । किमेवमात्मैवमात्मना वञ्चितः ॥

तद्विभजते—

असावनुशयाक्षेपो यस्मादनुशयोत्तरम् ।
अर्थार्जनादेर्व्यावृत्तिर्दर्शितेह गतायुषा ॥ १५८ ॥

यस्मात् अर्थस्यार्जनमादिर्यस्य विद्यार्जनादेः तस्य व्यावृत्तिः अभावः [दर्शिता] कथम् ? अनुशयः पश्चाताप उत्तरोऽधिको यस्मिन् दर्शन इति क्रियाविशेषणम् । गतायुषा गतवयसा पुंसा केनचित् । तस्मात् असौ ईदृशोऽनुशयाक्षेप इति ॥

अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके ।
मुखेन्दौ तव सत्यस्मिन्नपरेण किमिन्दुना ॥ १५९ ॥

तव मुखे इन्दौ सति अस्मिन् प्रत्यक्षवर्तिनि इतरेण मुखेन इन्दुना किमधिकं कार्यम् ? न किञ्चित् । अमृतमिवात्मा स्वरूपमेकान्तप्रीतिकरत्वात् यस्य मुखेन्दोः स तथा । अमृतं सुधैव