अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता ।
न तपः सञ्चितं किञ्चिद् गतं च सकलं वयः ॥ १५७ ॥

कञ्चिद् विवक्षितोऽर्थो धनं न सम्भृतः नोपार्जितः । विद्यापि काचित् आन्वीक्षिक्यादिर्नार्जिता । तपश्च धर्मः किञ्चित् अभिमतं न सञ्चितम् । गतम् अतीतं च सकलं वयः पुरुषायुषम् अपुरुषार्थोपयोगेन । किमेवमात्मैवमात्मना वञ्चितः ॥