तद्विभजते—

असावनुशयाक्षेपो यस्मादनुशयोत्तरम् ।
अर्थार्जनादेर्व्यावृत्तिर्दर्शितेह गतायुषा ॥ १५८ ॥

यस्मात् अर्थस्यार्जनमादिर्यस्य विद्यार्जनादेः तस्य व्यावृत्तिः अभावः [दर्शिता] कथम् ? अनुशयः पश्चाताप उत्तरोऽधिको यस्मिन् दर्शन इति क्रियाविशेषणम् । गतायुषा गतवयसा पुंसा केनचित् । तस्मात् असौ ईदृशोऽनुशयाक्षेप इति ॥