अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके ।
मुखेन्दौ तव सत्यस्मिन्नपरेण किमिन्दुना ॥ १५९ ॥

तव मुखे इन्दौ सति अस्मिन् प्रत्यक्षवर्तिनि इतरेण मुखेन इन्दुना किमधिकं कार्यम् ? न किञ्चित् । अमृतमिवात्मा स्वरूपमेकान्तप्रीतिकरत्वात् यस्य मुखेन्दोः स तथा । अमृतं सुधैव 58b आत्मा यस्येन्दोरिति शब्दश्लेषः । पद्मानां द्वेष्टा मुखेन्दुः तत्सदृशत्वादिन्दुश्च तत्सं[को]चकारित्वात् । अयमपि शब्दश्लेषः । स्निग्धे रक्ते तारके नेत्रमध्यभागे ततो वा समुदायोपलक्षणाच्चक्षुषी यस्य मुखेन्दोः । स्निग्धाः तारका रोहिण्यादयो यस्येन्दोरिति शब्दश्लेष एव । एवम[क्षी]णगुणे मुखेणे मुखेन्दौ सति किमितरेणेन्दुनेति प्रत्याम्नायः ॥