58b आत्मा यस्येन्दोरिति शब्दश्लेषः । पद्मानां द्वेष्टा मुखेन्दुः तत्सदृशत्वादिन्दुश्च तत्सं[को]चकारित्वात् । अयमपि शब्दश्लेषः । स्निग्धे रक्ते तारके नेत्रमध्यभागे ततो वा समुदायोपलक्षणाच्चक्षुषी यस्य मुखेन्दोः । स्निग्धाः तारका रोहिण्यादयो यस्येन्दोरिति शब्दश्लेष एव । एवम[क्षी]णगुणे मुखेणे मुखेन्दौ सति किमितरेणेन्दुनेति प्रत्याम्नायः ॥

तद् व्याचष्टे—

इति मुखेन्दुराक्षिप्तो गुणान् गौणेन्दुवर्तिनः ।
तत्समान् दर्शयित्वेह श्लिष्टाक्षेपस्तथाविधः ॥ १६० ॥