115 इति एवं तत्समान् मुखेन्दुसाधारणान् गुणान् अमृतात्मत्वादीन् गौणे मुखेन्दौ वर्तमानान् दर्शयित्वा प्रतिपाद्य मुखेन्दुराक्षिप्तः किमिन्दुनेति । तस्मात् श्लिष्टाक्षेपः तथाविधः तादृशोऽवगन्तव्यः श्लेषप्रयोगादिति ॥

किमयं शरदम्भोदः किं वा हंसकदम्बकम् ।
रुतं नू पुरसंवादि श्रूयते तन्न तोयदः ॥ १६१ ॥

अयं दृश्यमानः किं शरदि शरदो वा अम्मोदः, किं वा आहोस्वित् हंसानां कदम्बकं वृन्दमिदम् ? भवतु, विदितम् । नूपुरनिनादसदृशमनुरुतं श्रूयते यतः, तत् तस्मात् नायं तोयदः किं तु हंसकदम्बकमेवेति ॥

तत् कथयति—

इत्ययं संशयाक्षेपः संशयो यन्निवर्त्यते ।
धर्मेण हंससुलभेनास्पृष्टघनजातिना ॥ १६२ ॥

यत् यस्मात् संशयः, शरदम्भोदो हंसकदम्बकं वेति सन्देहो न निवर्त्यते हंसे हंसेन वा सुलभेन तत्रैव सम्भवात् । धर्मेण गुणेन नूपुरसंवादिना रुतेनास्पृष्टा तत्रासम्भवात्, घनजातिः मेघो येन तेन हेतुना कर्तृभूतेन वा । तस्मादित्ययमीदृशः संशयाक्षेप इति ॥

चित्रमाक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति ।
कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः ॥ १६३ ॥

चित्रमद्भतमेतत् । आक्रान्तममिभूतं विश्वं जगद्येन स तथाभूतोऽपि तव विक्रमः शौर्यं न तृप्यति नाभिलाषपर्यन्तमधिगच्छति । अथवा किं चित्रम् ? उदीर्णस्याधिमात्रस्य हविर्भुजोऽग्नेः कदा तृप्तिर्दृश्यते ? न कदाचित् । तथा विक्रमस्तव जगदाक्रम्यापि न तृप्यतीति योज्यम् ।

तद् व्याचष्टे—

अयमर्थान्तराक्षेपः प्रक्रान्तो यन्निवर्त्यते ।
विस्मयोऽर्थान्तरस्येह दर्शनात् तत्सधर्मणः ॥ १६४ ॥