55b वल्लभ ! सत्यं नियतमिदम् अहं त्वां ब्रवीमि मा अन्यथा मंस्थाः । किं तदित्यादि । नेत्यादि । अन्यथा प्रतियोषिता अन्यस्या वा विलासलाक्षारागरञ्जिताधरपल्लवया । चुम्बनात् वक्त्रयोगात् संक्रान्तः संचरितो लाक्षारागो यत्र तेन चक्षुषा मां द्रष्टुं त्वं न लप्स्यसे नाहमीदृशं व्यतिकरमपरेव सोढुं शक्नोमि । तदैव मे लोकान्तरप्रस्थानम् । ईदृशीयं सृष्टिः किं करवाणीति ॥

तद् विवृणोति—

सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्विनी ।
कदाचिदपराधोऽस्य भावीत्येवमरुन्ध्द यत् ॥ १२६ ॥

यद् यस्मात् अतिमनस्विनी सर्वथा दोषमर्षणपराङ्मुखस्वभावा काचित् प्रणयिनी कदाचिदस्य पुनरपराधो व्यलीकं भावी भवेदिति शङ्कमाना प्रागेवानागतविधायितयारुन्ध्द आक्षिपत् । एवमनन्तरोक्तेन प्रकारेण । तस्मात्सोऽयमीदृशः भविष्यदाक्षेपो भविष्यत एव दर्शनलाभादेराक्षेपादिति ॥

तव तन्वङ्गि ! मिथ्यैव रूढ़मङ्गषु मार्दवम् ।
यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम् ॥ १२७ ॥