तद् विवृणोति—

सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्विनी ।
कदाचिदपराधोऽस्य भावीत्येवमरुन्ध्द यत् ॥ १२६ ॥

यद् यस्मात् अतिमनस्विनी सर्वथा दोषमर्षणपराङ्मुखस्वभावा काचित् प्रणयिनी कदाचिदस्य पुनरपराधो व्यलीकं भावी भवेदिति शङ्कमाना प्रागेवानागतविधायितयारुन्ध्द आक्षिपत् । एवमनन्तरोक्तेन प्रकारेण । तस्मात्सोऽयमीदृशः भविष्यदाक्षेपो भविष्यत एव दर्शनलाभादेराक्षेपादिति ॥