106 तन्वङ्गि ! तवाङ्गेषु मार्दवं सौकुमार्यं मिथ्यैव असत्यमपि रूढ़ं प्रसिद्धमासीत् । मिथ्याप्रसिद्धिरेवेयं यत् तवाङ्गानि मृदूनि इति यावत् । तथाहि यदि सत्यं परमार्थतो मृद्वङ्गानि भवेयुः, नोपचारमात्रम् । सत्यमिति भवनक्रियाविशेषणम् । मां किं कस्मात् रुजन्ति पीडयन्ति । अकाण्डे अकस्मात् । क्रूरकार्यं हि पीडनम् । तत्कथं मादवे युज्यत इति ॥

कतमोऽयमाक्षेप इत्याह—

धर्माक्षेपोऽयमाक्षिप्तमङ्गनागात्रमार्दवम् ।
कामुकेन यदत्रैवं कर्मणा तद्विरोधिना ॥ १२८ ॥

यद् यस्मात् अत्र प्रयोगे कामुकेन केनचित् चाटुकारेण कर्तृभूतेन तद्विरोधिना प्रतिद्वन्द्विना कर्मणा[न]ङ्गरुजारूपेण करणभूतेनाङ्गनाया गात्रेषु मार्दवमेवमुक्तेन प्रकारेणाक्षिप्तं निषिद्धम् । तस्मादयमीदृशो धर्मस्याक्षेप इति ॥

सुन्दरी सा न वेत्येष विवेकः केन जायते ।
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ १२९ ॥

सा विवक्षिता काचित् सुन्दरी भवतीति तावन्निश्चयरूपो विवेकः विभागप्रतिपत्तिः । न वा सा भवतीत्यभावनिर्णयलक्षणो विवेकः । एषोऽयं केन हेतुना जायते ? न केनचिदित्यर्थः । किं कारणमित्याह— प्रभेत्यादि । हिर्यस्मादर्थे । तत्र तस्यां तरलम् उज्ज्वलम् प्रभा कान्तिः धर्म एव मात्रं न धर्मी दृश्यते गृह्यते । यदाह—नाश्रय इति । प्रभानाम्नो धर्मस्य आश्रयः अधिकरणं देहे न दृश्यते ।