सुन्दरी सा न वेत्येष विवेकः केन जायते ।
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ १२९ ॥

सा विवक्षिता काचित् सुन्दरी भवतीति तावन्निश्चयरूपो विवेकः विभागप्रतिपत्तिः । न वा सा भवतीत्यभावनिर्णयलक्षणो विवेकः । एषोऽयं केन हेतुना जायते ? न केनचिदित्यर्थः । किं कारणमित्याह— प्रभेत्यादि । हिर्यस्मादर्थे । तत्र तस्यां तरलम् उज्ज्वलम् प्रभा कान्तिः धर्म एव मात्रं न धर्मी दृश्यते गृह्यते । यदाह—नाश्रय इति । प्रभानाम्नो धर्मस्य आश्रयः अधिकरणं देहे न दृश्यते । 56a तत्कथमयं विवेक इति प्रकृतमुपसंहार्यमिति ॥