56a तत्कथमयं विवेक इति प्रकृतमुपसंहार्यमिति ॥

तद्विभजते—

धर्म्याक्षेपोऽयमाक्षिप्तो धर्मी धर्मं प्रभाह्वयम् ।
अनुज्ञायैव यद्रूपमत्याश्चर्य विवक्षता ॥ १३० ॥

यद् यस्मात् अत्र विषये रूपं वर्णसंस्थानात्मकं भूतगुणम् अत्याश्चर्यम् अत्यन्ताद्भतम्, एवं नामेदं प्रतिविशिष्टं यदाश्रयोऽपि तत्र लावण्यराशौ निमग्नो न