तद्विभजते—

धर्म्याक्षेपोऽयमाक्षिप्तो धर्मी धर्मं प्रभाह्वयम् ।
अनुज्ञायैव यद्रूपमत्याश्चर्य विवक्षता ॥ १३० ॥

यद् यस्मात् अत्र विषये रूपं वर्णसंस्थानात्मकं भूतगुणम् अत्याश्चर्यम् अत्यन्ताद्भतम्, एवं नामेदं प्रतिविशिष्टं यदाश्रयोऽपि तत्र लावण्यराशौ निमग्नो न107 दृश्यते इति वक्तुम् इच्छता चाटुकारेण केनचिदाक्षिप्तो धर्मी आश्रयः । धर्मं गुणं प्रभाह्वयं कान्त्यभिधानम[नु]ज्ञाय अनाक्षिप्य । प्रभेत्याह्वयो नाम यस्येति विग्रहः । तस्माद्धर्मिण आक्षेपो निराशः ॥