107 दृश्यते इति वक्तुम् इच्छता चाटुकारेण केनचिदाक्षिप्तो धर्मी आश्रयः । धर्मं गुणं प्रभाह्वयं कान्त्यभिधानम[नु]ज्ञाय अनाक्षिप्य । प्रभेत्याह्वयो नाम यस्येति विग्रहः । तस्माद्धर्मिण आक्षेपो निराशः ॥

चक्षुषी तव रज्येते स्फुरत्यधरपल्लवः ।
भ्रुवौ च भुग्ने न तथाप्यदुष्टस्यास्ति मे भयम् ॥ १३१ ॥

चण्डि ! चक्षुषी तव इमे रज्येते रोषरागमागच्छतः । अधरश्च पल्लवोऽयं स्फुरति कोपकम्पमनुगच्छति । भ्रुवौ च इमे भुग्ने जिह्मभावमाभजतः । कामं तथापि । अदुष्टस्यानिरागसो मे मम भयं त्रासो नास्ति । सापराधो हि बिभीयात् । किमहमवाच्यो बिभेमीति ॥

तद्विवृणोति—

स एष कारणाक्षेपः प्रधानं कारणं भियः ।
स्वापराधो निषिद्धोऽत्र यत् प्रियेण पटीयसा ॥ १३२ ॥

यद् यस्मात् पटीयसा दोषपरिहारचतुरेण प्रियेण भियो भयस्य प्रधानम् उचितं कारणम् अन्यद् भवदपि अनुचितं स्वस्य स्वो वा अपरावो दोषो निषिद्धः अत्र प्रयोगे । तस्मात् स एष ईदृशः कारणस्य [आ]क्षेपो विज्ञेय इति ॥

दूरे प्रियतमः सोऽयमागतो जलदागमः ।
दृष्टाश्च फुल्ला निचुला न मृता चास्मि किं न्विदम् ॥ १३३ ॥

प्रियतमो दूरे प्रेषितो वर्तते । योऽसौ विरहिणीप्राणप्रयाणसमयः सोऽयं जलदागमोऽप्यागतः । फुल्ला निचुला वञ्जुला मञ्जुमञ्जरीजालजटिलशिरसो दृष्टा दृष्टिकटवः । एवं [सन्निहित]समग्रमरणकारणा साहं न च मृतास्मि । किं न्विदं विधिविलसितं दीर्घदुःखभाजनतां नीता वयम् अमुना दग्धदैवेनेति ॥

तद् व्याचष्टे—

कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात् ।
तत्कारणमुपन्यस्य दारुणं जलदागमम् ॥ १३४ ॥