108 तस्य मरणस्य कारणं दारुणम् अतिदुःसहं जलदागममुत्फुल्लनिचुलं प्रियवियोगसचिवमुपन्यस्य प्रतिपाद्य कार्यस्य मरणस्य निवर्तनात् न मृतास्मीति सोऽयमीदृशः कार्यस्याक्षेपः प्रतिपत्तव्य इति ॥

न चिरं तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यमलमाशङ्कयात्र ते ॥ १३५ ॥

वल्लभ ! तव यात्रा गमनं चिरं दीर्घं मम तापाय दुःखार्थं न भविष्यति । स्वल्पोऽपि तापस्त्वया विना मृताया न मे सम्भवति । जीवन्ती हि तमनुभवेत् । न च मरणसुखं परित्यज्य काचित्सचेतना दुःख