112 ते तव प्रयाणक्षणं दर्शनस्य विघ्नाय पक्ष्मास्पन्दाय चक्षुनिंमेषाय कुप्यतः प्रेम्णः स्नेहस्य ब्रूहि कथय । वचनविषयस्य सम्बन्धित्वेन वितक्षितत्वात् षष्ठी । किमेवमित्याह— यत् तस्य प्रेम्णोपदिष्टमनुमतं किञ्चित् तन्मयेष्यते । नाहं स्वतन्त्रा किं तवाविदितम् ? तस्मात् प्रेमैव भावय । तच्चेदनुमन्यते के वयमन्यथाकर्तुमिति ॥

तदुद्भावयति—

अयं परवशाक्षेपो यत्प्रेमपरतन्त्रया ।
तया निषिध्यते यात्रा तस्यार्थस्योपसूचनात् ॥ १५० ॥

अयमीदृशः परवशाक्षेपः कुतः प्रेमपरतन्त्रया स्नेहनिघ्नया तया प्रियया कयाचित् यात्रा प्रियस्य निषिध्यते इति यदेतत् तस्येदृशस्यार्थस्य वस्तुन उपसूचनादुद्भावनादिंति ॥

सहिष्ये विरहं नाथ ! देह्यदृश्याञ्जनं मम ।
यदक्तनेत्रां कन्दर्पः प्रहर्ता मां न पश्यति ॥ १५१ ॥

नाथ ! तव विरहं दुःसहमप्यहं सहिष्ये यापयामि । किं तु अ[दर्शनसाधन]मञ्जनं किञ्चिन्मे देहि । किं तेन ? येनादृश्याञ्जनेनाक्ते स्पृष्टे नेत्रे यस्यास्तां मां न पश्यति कन्दर्पः कामः प्रहर्ता हन्ता । अपश्यतः कथं प्रहरेदिति ॥

तत्प्रकाशयति—

दुष्करं जीवितोपायमुपन्यस्योपरुध्यते ।
पत्युः प्रस्थानमित्याहुरुपायाक्षेपमीदृशम् ॥ १५२ ॥

दुष्करं दुर्लभं जीवितस्योपायं अदृश्याञ्जनरूपमुपन्यस्य पत्युः प्रस्थानमुपरुध्यते इति हेतोरीदृशमुपायाक्षेपमाहुस्तद्विद इति ॥78

  1. अत्र
    मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्छिता ।
    बुध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् ॥
    इति तत्कालसंभूतमूर्छयात्तिप्यते गतिः ।
    कान्तस्य कातराक्ष्या यन्मूर्छाक्षेपः स ईदृशः ॥
    इति श्लोकद्वितयं मूले क्वचिदधिकं दृश्यते ।