तामुदाहरन्नाह—
फुल्ले प्रबुद्धे पङ्कजे स्थितं मधु मकरन्दं यथाकामम् इच्छानुरूपं पिबन् भ्रमरः । असन्नद्धं सौरभ्यमस्मिन्निति असन्नद्धसौरभ्यम् अनुपजाततादृशगुणं कुड्मलं चुम्बति । पश्य यथा अस्यातिलोलता । इत्यामुखयति कञ्चित् । शब्दार्थस्तावदयमीदृशः प्रतिभाति ॥
भावार्थमत्र दर्शयन्नाह—
इति इह वाक्ये प्रयुक्ते प्रौढ़ायाम् आरूढ़मन्मथविभ्रमविमर्दभूमौ अङ्गनायां बद्धा निवेशिता रतिः सम्भोग एव लीला विभ्रमो येन यस्य वा तस्य रागिणः । कस्याञ्चित् बालायाम् प्रथमवयोवर्तिन्याम् अप्रौढ़ायां कस्याञ्चिद्विषये इच्छाया रागस्य वृत्तिः प्रसरो विभाव्यते प्रतीयते । न तु साक्षादुच्यते । ततोऽयमेवार्थो विधेयत्वात् प्रधानम् । शब्दार्थस्तूपसर्जनीभूतस्तत्परत्वाभावाद्वाक्यस्येति ॥
समासोक्तेः प्रभेदं दर्शयन्नाह—