67a हंससंहत्य इव न विभाव्यन्ते । यथेयमतिशयोक्तिः तथा एवं संशये संशयस्य वा अतिशयो विशेषः । संशयातिशयोक्तिः एकदेशेन समुदायोपलक्षणादिः यस्याम् । निश्चयातिशयोक्त्यादीनां तासाम् व्यक्तौ विशेषावगमनिमित्तं व्यक्त्यै वा व्यक्त्यर्थं किञ्चित् कियन्मात्रं लक्ष्यं निदर्श्यते उदाह्रियत इति ॥

स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥ २१५ ॥

प्रिये ! तव स्तनयोः पयोधरद्वयस्य जघनस्यापि नितम्बस्य मध्ये स्थाने मध्यं मूर्त्त देहावयवभूतमस्ति किं वा नास्तीत्युभयपक्षपाती सन्देहः संशयः । तत्परं चिरमारभ्य पश्यतो मे मम अद्यापि न निवर्तते । मध्यं तव नितम्बिनि इत्यपि पठ्यते । सुगमम् । तनीयसोऽपि तत्र मध्यस्य सूपलक्ष्यत्वात् संशयो जातु जायते तथाप्येवमतिभूमिमतिरोपितः कविना, यतः तद्विदः प्रमदमया जायन्ते । तदीदृशी संशयोक्तिरिति रमणीयेति ॥

निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ २१६ ॥

नितम्बिनि ! तव मध्यं स्तनजघनयोरन्तरमस्तीति निर्णेतुं निश्चेतुं शक्यम् पार्यते । कथम् ? पयोधरयोः पयोधरलक्षणस्य भरस्य स्थितेरवस्थानस्य तदाधारमध्यव्यतिरेकेण अन्यथा प्रकारान्तरेण अनुपपत्तेरयोगात् । पयोधरभरः तावत् अवतिष्ठमानोऽतिस्थूलत्वात् साक्षादपेक्षते [मध्यरूपमाश्रयम् । तत्र] मध्ये सन्देहः । तदप्ययमेव निश्चाययति । विना तेनानुप[पद्य]मानावस्थान[त्वात्] काममतिक्षामम्