स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥ २१५ ॥

प्रिये ! तव स्तनयोः पयोधरद्वयस्य जघनस्यापि नितम्बस्य मध्ये स्थाने मध्यं मूर्त्त देहावयवभूतमस्ति किं वा नास्तीत्युभयपक्षपाती सन्देहः संशयः । तत्परं चिरमारभ्य पश्यतो मे मम अद्यापि न निवर्तते । मध्यं तव नितम्बिनि इत्यपि पठ्यते । सुगमम् । तनीयसोऽपि तत्र मध्यस्य सूपलक्ष्यत्वात् संशयो जातु जायते तथाप्येवमतिभूमिमतिरोपितः कविना, यतः तद्विदः प्रमदमया जायन्ते । तदीदृशी संशयोक्तिरिति रमणीयेति ॥