140 इह तु न किञ्चिद् बीजं तथोत्प्रेक्षायाः, सर्वथा दृष्टिकर्णोत्पलयोः संसर्गाभावादित्याह-

अपाङ्गभागपातिन्या दृष्टेरंशुभिरुत्पलम् ।
स्पृश्येत वा न वैवं तु कविनोत्प्रेक्ष्य कथ्यते ॥ २२३ ॥

अपाङ्गभागः लोचनोपान्तदेशः तत्र पतन्त्या अवलोकयन्त्या दृष्टेरंशुभिः किरणैः उत्पलं श्रुतिवतंसं स्पृश्येत संसृज्येत । कस्याश्चिदुत्पलं स्पृश्यते । नापि तत्कान्त्या तथाप्यदर्शनात् । तत्कथमेवमुत्प्रेक्ष्यते ? पूर्वत्र तु तथा जलगाहनदर्शनात् चादृगुत्प्रेक्षासम्भावना । अङ्गनायाः सम्भाव्यमेतत् । अथ कथञ्चित् नेति निर्बन्धः, तदा न वा स्पृश्येत । नात्रास्माकमभिनिवेशः । कथं तर्हि तथोत्प्रेक्ष्यत इत्याह- एवं त्वित्यादि । तुशब्दोऽर्थान्तरविवक्षायाम् । एवमतिशयोक्त्या नयनांशुभिः स्पर्शं कर्णोत्पलसिद्धं कृत्वा अर्थान्तरं यथोक्तमुत्प्रेक्ष्यमनिमित्तं परिकल्प्य कविना कथ्यते प्रयुज्यते । ततश्चातिशयोक्तिप्रभावितेयमुत्प्रेक्षा कल्प्यते । अत एवोक्तम्—

अलङ्कारान्तराणामप्याहुरेकं परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ इति ॥
84

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ॥ २२४ ॥

तमः कर्तृ अङ्गानि वपूंषि लिम्पतीव, यथा कश्चिच्चन्दनादिना लिम्पति । नभः कर्तृ अञ्जनं वर्षतीव यथा देवो जलं वर्षति । इत्येवंरूपमिदमपि लक्ष्यं न केवलं पूर्वोक्तम् । उत्प्रेक्षाया लक्षणेन अन्यस्थिताया वस्तुवृत्तेरन्यथापरिकल्पनरूपेण अन्वितम् उपेतम् भूयिष्ठमत्यर्थम् । उत्प्रेक्षैव इयं न उपमा इति यावत् ॥85

  1. २.२१८
  2. अत्र
    पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम् ।
    तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥
    इत्यार्षरामायणश्लोकं युद्धका ४. ११५ केचिदधिक पठन्ति ।