लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ॥ २२४ ॥

तमः कर्तृ अङ्गानि वपूंषि लिम्पतीव, यथा कश्चिच्चन्दनादिना लिम्पति । नभः कर्तृ अञ्जनं वर्षतीव यथा देवो जलं वर्षति । इत्येवंरूपमिदमपि लक्ष्यं न केवलं पूर्वोक्तम् । उत्प्रेक्षाया लक्षणेन अन्यस्थिताया वस्तुवृत्तेरन्यथापरिकल्पनरूपेण अन्वितम् उपेतम् भूयिष्ठमत्यर्थम् । उत्प्रेक्षैव इयं न उपमा इति यावत् ॥85

  1. अत्र
    पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम् ।
    तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥
    इत्यार्षरामायणश्लोकं युद्धका ४. ११५ केचिदधिक पठन्ति ।