अन्ये तूपमात्मतां मन्यन्ते इत्युद्भाव्य निराकुर्वन्नाह—

केषाञ्चिदुपमाभ्रान्तिरिवश्रुत्येह जन्यते ।
नोपमानं तिङन्तेनेतित्यक्रम्याप्तभाषितम् ॥ २२५ ॥

केषाञ्चिद् वादिनामिहोत्प्रेक्षायामुपमा इयमिति उपमाभ्रान्ति[ः] विपर्यासो जन्यते । इवश्रुत्या इवशब्देन । इवशब्दोऽयमुपमासूचक इह उच्यते । तस्मादियमुपमेति भ्राम्यन्ति केचित् । इयं च कल्पना तावदागमविरुद्धेत्याह,—नेत्यादि । तिङ्न्तेन आख्यातेन क्रियाप्रधानेन सह कस्यचित् उपमानं सादृश्यप्रतीतिर्नास्तीति यदाप्तानां यथा[र्थ]दर्शिनांभाषितं86 वचनम् आगमः तल्लक्षणत्वादागमस्य । आप्तो[प]देशः प्रमाणमागम इति । तदतिक्रम्याप्रमाणीकृत्य इवशब्ददर्शनात् तैराप्तवचनमतिक्रान्तमुपमेति च भ्रान्तमिति । इवशब्दस्य आप्तवचनातिक्रमं भ्रान्तिजननं 69a च प्रति कर्तृत्वं विवक्षितमिति ॥

  1. महाभाष्ये ३.१.७