69a च प्रति कर्तृत्वं विवक्षितमिति ॥

नन्वाप्तवचनं न्यायसंवादि प्रमाणम् । न पुनराप्तभाषितमिति विभीषिकामात्रेण । न चात्र काचिद् युक्तिः । केवलं श्रद्धामात्रमिति । युक्तिसंवादितामाप्तवादस्य दर्शयन्नाह

उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया ।
लिम्पतेस्तमसश्चासौ धर्मः को नु समीक्ष्यते ॥ २२६ ॥

इदं तावदविवादास्पदमुपमानत्वं कस्यचिदुपमेयत्वं चा[न्यस्य] वस्तुनः तयोर्द्वयोस्तुल्यः साधारणो यो धर्मः क्रियालक्षणो गुणरूपो वा तस्य व्यपेक्षया समाश्रयेण हेतुना भवेत्, नान्यथा । यथेन्दुवदनयोः कान्त्यादितुल्यधर्मपरिग्रहेण । सा चेयं नीतिरिह नास्तीत्याह-लिम्परेरिति लिम्पतिरिह त्रिधैव सम्भवति, शब्दात्मकः क्रियास्वभावः कर्तृरूपश्चेति । शब्दस्तावन्नोपमानं तमसः, तयोस्तुल्यधर्मादर्शनात् । न हि लिम्पतिशब्दस्य तमसश्च क्रियारूपो गुणलक्षणो वा कश्चित् तुल्यो धर्मः प्रतिभाति, येनोपमानोपमेयभावः स्यात् चन्द्रमुखयोरिव । ततः क्रियारूपो लिम्पतिरुपमानं भवतु । तस्यापि तमसा तुल्यो न कश्चिद् धर्मोऽस्ति येनोपमा स्यादिति पश्यन् पृच्छति-लिम्पतेरुपमानस्य तमसश्चोपमेयस्य असौ तुल्यो धर्मः गुणः कः