74a प्रयुक्ता अत्यन्तम् एकान्तेन सुन्दरा मनोहरा दृष्ठा लक्षिताः । के पुनस्ते ? येषां चित्रहेतूनामुदाहृतयः प्रयोगा उदाह्रियन्त इति कृत्वा । ताः किम् ? प्रतिपाद्यन्त इति शेषः । यथेति निदर्शयति ॥

त्वदपाङ्गाह्वयं जैत्रमनङ्गास्त्रं यदङ्गने ।
मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः ॥ २५३ ॥

अङ्गने ! अङ्गजस्य कामस्य अस्त्रम् आयुधं जैत्रम् जगज्जयशीलं तवापाङ्गमपाङ्गदर्शनमित्याह्वयोऽभिधानमस्येति त्वदपाङ्गाह्व्यं यदिदं तत् त्वया मुक्तं क्षिप्तमन्यतोः अन्यस्मिन् जिगीषिते पुरुषे क्वचित् तेनान्यतो मुक्तेन सोऽप्यहं यो न लक्षीकृतः मनसि कृतो हतः । न केवलं यत्र मुक्तं स एवेत्यपिशब्दः । तदेतच्चित्रम् । प्रसिद्धं ह्यस्त्रं यत्र प्रयुज्यते तं विषयं क्षिणोति । इदं त्वव्यापारगौरवं वस्तु हिनस्ति इति दूरकार्यः चित्रहेतुरीदृशः प्रतिपत्तव्य इति ॥