आविर्भवति नारीणां वयः पर्यस्तशैशवम् ।
सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैः ॥ २५४ ॥

नारीणां वयः पर्यस्तं क्षिप्तं तदुपमादिनोदयात् शैशवं बाल्यमनेनेति पर्यस्तशैशवं यौवनमिति यावत् । अङ्गजः काम उन्मादो विकारहेतुत्वात् । तस्य विभ्रमाः तदनुरूपा दशाविशेषास्तैः कार्यभूतैर्विविधैर्नानाप्रकारैः चक्षुःप्रीतिमनःसङ्गसंकल्पोत्पत्तिनिद्राभङ्गादिभिः89 पुंसां सम्बन्धिभिः सह युगपदेवापूर्वाचारः समाविर्भवति उदेतीति चित्रमेतत् । प्रतीतो हि हेतुः कार्यात् पूर्वभावी तदुत्पादयति । अयं तु हेतुः सहैव कार्येण जायसे इति कार्यसहजश्चित्रो हेतुरेवंविधो बोद्धव्यः ॥

  1. दृङ्मनःसड्गसंकल्पा जागरः कृशतारतिः ।
    ह्नीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ॥