75a सूचित इति प्रकृतम् । अयमिङ्गित- सूक्ष्मो दर्शितः, पद्मसम्मीलनात् उत्पलकृतस्य कायकर्मण इङ्गितरूपत्वादिति ॥
आकारसूक्ष्ममुदाहरन्नाह—
गीतलक्षणगोष्ठी विनोदस्तस्यां त्वयि अर्पिता व्यापारिता दृक् दृष्टिः यस्या यया वा तस्या मुखाम्बुजे कान्त्यादिना उद्दामेन उदीर्णेन रागेण रत्यभिप्रायेण तरला उज्ज्वला रक्तच्छाया कान्तिः कापि विशिष्टा या निधुवनानन्दोत्सवमन्तर्वर्तिनमाविष्करोति । अवर्धन व्यजृम्भत । अयमाकारसूक्ष्मो निर्दिष्टः, तादृशो मुखच्छायायाः स्वयमेव तथाविधाभिप्रायवशादबुद्धिपूर्वमाविर्भावादिति ॥
तद् व्याचष्टे—