248 हृतं द्रव्यमस्मादिति हृतद्रव्यं निर्धनं नरं त्यक्त्वा धनवन्तं नरं का व्रजन्ति ? नाना अनेकप्रकाराणां भङ्गीनां श्रृङ्गारचेष्टालक्षणानां शतैः । बहुत्वोपलक्षणमे[तत्] । आकृष्टा वशीकृता लोकाः पुरुषा याभिरिति नानाभङ्गि[शता]कृष्टलोकाः दुर्धरा दुर्वारा अनाय[त्त]त्वात् । वेश्या गणिका एवंविधा भवेयुरिति उत्तरमाशङ्क्य निषेधति—एवंविधाः सत्योऽपि न वेश्याः किं तु श्रिय इत्यत्रोत्तरम् । अतो नानाभङ्गिशताकृष्टलोका इत्यादेः तुल्यधर्मस्पृशो गिरः श्रिय इत्यस्मिन्नर्थे निभृतत्वाद् व्यवस्थानात् तया वा श्रिय इत्यस्यार्थस्य निभृतत्वान्निगूढत्वात् निभृतेयमुदाहृता ॥

जितप्रकृष्टकेशाख्यो यस्तवाभूमिसाह्वयः ।
असौ मामुत्कमधिकं करोति कलभाषिणि ॥ ११८ ॥

कलभाषिणि ! जितस्तदुपमितः प्रकृष्टस्य