जितप्रकृष्टकेशाख्यो यस्तवाभूमिसाह्वयः ।
असौ मामुत्कमधिकं करोति कलभाषिणि ॥ ११८ ॥

कलभाषिणि ! जितस्तदुपमितः प्रकृष्टस्य 111a केशस्याख्या संज्ञा यस्य स प्रकृष्टकेशाख्यः प्रवालः येनेति जितप्रकृष्टकेशाख्यः प्रवालोपम [इत्यर्थः] । न विद्यते भूमिरस्येति अभूमिः । तेन अर्थतः समानः आह्वयः संज्ञा यस्या असौ अभूमिसाह्वयः अधरः तव यः । असौ अयं मामुत्कमुन्मनसमधिकमत्यर्थं करोति । एवं कल्पितप्रसिद्धशब्दपर्यायसाधितेयं समानशब्दा निदर्शितेति ॥