111a केशस्याख्या संज्ञा यस्य स प्रकृष्टकेशाख्यः प्रवालः येनेति जितप्रकृष्टकेशाख्यः प्रवालोपम [इत्यर्थः] । न विद्यते भूमिरस्येति अभूमिः । तेन अर्थतः समानः आह्वयः संज्ञा यस्या असौ अभूमिसाह्वयः अधरः तव यः । असौ अयं मामुत्कमुन्मनसमधिकमत्यर्थं करोति । एवं कल्पितप्रसिद्धशब्दपर्यायसाधितेयं समानशब्दा निदर्शितेति ॥

शयनीये परावृत्य शयितौ कामिनौ रुषा ।
तथैव शयितौ रागात् स्वैरं मुखमचुम्बताम् ॥ ११९ ॥

कामी च कामिनी च कामिनौ स्त्रीपुंसौ रुषा प्रण्यकलहेन हेतुना परावृत्य पराङ्मुखीभूः[य] शयनीये तल्पे शयितौ । तथैव परावृत्त्यैव मुखमन्योन्यस्य स्वैरं यथेष्टं रागादचुम्बताम् चुम्बितवन्तौ इति मोहो जायते । कथं नाम परावृत्य शयितौ स्वैरं मुखं चुम्बत इति ? यथा पूर्वं संमुखं शयितौ तथैव पुनः संविष्टौ रागपरवशतया स्वैरं मुखमचुम्बतामिति तु परमार्थः । इयमेव साक्षान्निर्दिष्टार्थापि संमोहकारिणीति संमूढा दर्शिता ॥

विजितान्नभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति ॥ १२० ॥